श्लोकः
अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम्।
सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते।।२-३४।।

सन्धि विग्रहः
अकीर्तिम् च अपि भूतानि कथयिष्यन्ति ते अव्ययाम्।
सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते।।२-३४।।

श्लोकार्थः
अपि च भूतानि ते अव्ययाम् अकीर्तिम् कथयिष्यन्ति।
सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते।

शब्दार्थः
2.34 अकीर्तिम्=infamy च=also अपि=over and above भूतानि=all people कथयिष्यन्ति=will speak ते=of youअव्ययाम्=forever सम्भावितस्य=for a respectable man च=also अकीर्तिः=ill fame मरणात्=than deathअतिरिच्यते=becomes more

Meaning
2.34: Besides, people will forever talk of your infamy. For a man enjoying tributes, infamy is worse than death.