श्लोकः
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च।।२-५२।।

सन्धि विग्रहः
यदा ते मोह-कलिलम् बुद्धिः व्यतितरिष्यति।
तदा गन्तासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च।।२-५२।।

श्लोकार्थः
यदा ते बुद्धिः मोह-कलिलम् व्यतितरिष्यति, तदा श्रोतव्यस्य
श्रुतस्य च निर्वेदम् गन्तासि।

शब्दार्थः
2.52 यदा=when ते=your मोह=of illusion कलिलम्=dense forest बुद्धिः=transcendental service with intelligence व्यतितरिष्यति=surpasses तदा=at that time गन्तासि=you shall go निर्वेदम्=callousnessश्रोतव्यस्य=toward all that is to be heard श्रुतस्य=all that is already heard च=also

Meaning
2.52: When your intuitive intelligence goes beyond the turbidity of delusion, then, you become dispassionate, and indifferent to all that is heard and all that is yet to be heard.