श्लोकः
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता।।२-५८।।

सन्धि विग्रहः
यदा संहरते च अयम् कूर्मः अङ्गानि इव सर्वशः।
इन्द्रियाणि इन्द्रिय-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता।।२-५८।।

श्लोकार्थः
कूर्मः अङ्गानि इव, यदा अयम् इन्द्रिय-अर्थेभ्यः इन्द्रियाणि
सर्वशः संहरते, (तदा) तस्य प्रज्ञा प्रतिष्ठिता च।

शब्दार्थः
2.58 यदा=when संहरते=winds up च=also अयम्=he कूर्मः=tortoise अङ्गानि=limbs इव=like सर्वशः=altogetherइन्द्रियाणि=senses इन्द्रिय-अर्थेभ्यः=from the sense objects तस्य=his प्रज्ञा=consciousness प्रतिष्ठिता=fixed

Meaning
2.58: He, who retracts his senses from sense objects as a tortoise, which withdraws all its limbs from all directions, is steadfast in wisdom.