श्लोकः
तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता।।२-६८।।

सन्धि विग्रहः
तस्मात् यस्य महा-बाहो निगृहीतानि सर्वशः।
इन्द्रियाणि इन्द्रिय-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता।।२-६८।।

श्लोकार्थः
तस्मात् हे महा-बाहो! यस्य इन्द्रियाणि इन्द्रिय-अर्थेभ्यः सर्वशः
निगृहीतानि तस्य प्रज्ञा प्रतिष्ठिता।

शब्दार्थः
2.68 तस्मात्=therefore यस्य=whose महा-बाहो=O mighty-armed one निगृहीतानि=so curbed down सर्वशः=all around इन्द्रियाणि=the senses इन्द्रिय-अर्थेभ्यः=from sense objects तस्य=his प्रज्ञा=intelligenceप्रतिष्ठिता=fixed

Meaning
2.68: Therefore, O mighty-armed (Arjuna), when his senses withdraw from the sense objects in all ways, his wisdom is steadfast.