श्लोकः
या निशा सर्वभूतानां तस्यां जागर्ति संयमी।
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः।।२-६९।।

सन्धि विग्रहः
या निशा सर्व-भूतानाम् तस्याम् जागर्ति संयमी।
यस्याम् जाग्रति भूतानि सा निशा पश्यतः मुनेः।।२-६९।।

श्लोकार्थः
या सर्व-भूतानाम् निशा, तस्याम् संयमी जागर्ति।
यस्याम् भूतानि जाग्रति, सा पश्यतः मुनेः निशा।

शब्दार्थः
2.69 या=what निशा=is night सर्व=all भूतानाम्=of living entities तस्याम्=in that जागर्ति=is wakeful संयमी=the self-controlled यस्याम्=in which जाग्रति=are awake भूतानि=all beings सा=that is निशा=night पश्यतः=for the introspective मुनेः=sage

Meaning
2.69: What is night for all beings is awakening for the disciplined soul and what is awakening for all beings, is night for the seeing muni– the sage or seer.