श्लोकः
कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः।
यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम्।।२-७।।
सन्धि विग्रहः
कार्पण्य-दोष-उपहत-स्वभावः पृच्छामि त्वाम् धर्म-सम्मूढ-चेताः।
यत् श्रेयः स्यात् निश्चितं ब्रूहि तत् मे शिष्यः ते अहम् शाधि माम् त्वाम् प्रपन्नम्।।२-७।।
श्लोकार्थः
कार्पण्य-दोष-उपहत-स्वभावः धर्म-सम्मूढ-चेताः
त्वाम् पृच्छामि। यत् निश्चितं श्रेयः स्यात्, तत् मे ब्रूहि।
अहम् ते शिष्यः। त्वाम् प्रपन्नम् माम् शाधि।
शब्दार्थः
2.7 कार्पण्य=of miserliness दोष=by the weakness उपहत=being affliected स्वभावः=characteristicsपृच्छामि=I am asking त्वाम्=unto you धर्म=religion सम्मूढ=bewildered चेताः=in heart यत्=what श्रेयः=all good स्यात्=may be निश्चितं=confidently ब्रूहि=tell तत्=that मे=unto me शिष्यः=disciple ते=your अहम्=I amशाधि=just instruct माम्=me त्वाम्=unto you प्रपन्नम्=surrendered
Meaning
2.7: A taint of misplaced compassion afflicts my nature; I am addled about my sense of duty; what I ask of You is that You tell me in no uncertain terms what is honorable for me. I am Your disciple and seek advice and refuge in You https://ed-danmark.com/.