श्लोकः
न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम्।
अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम्।।२-८।।

सन्धि विग्रहः
न हि प्रपश्यामि मम अपनुद्यात् यत् शोकम् उच्छोषणम् इन्द्रियाणाम्।
अवाप्य भूमौ असपत्नम् ऋद्धम् राज्यम् सुराणाम् अपि च आधिपत्यम्।।२-८।।

श्लोकार्थः
हि भूमौ असपत्नम् ऋद्धम् राज्यम् अवाप्य, सुराणाम् च अपि
आधिपत्यम्, यत् मम इन्द्रियाणाम् उच्छोषणम् शोकम्
अपनुद्यात् न प्रपश्यामि।

शब्दार्थः
2.8 न=do not हि=certainly प्रपश्यामि=I see मम=my अपनुद्यात्=can drive away यत्=that whichशोकम्=lamentation उच्छोषणम्=drying up इन्द्रियाणाम्=of the senses अवाप्य=achieving भूमौ=on the earthअसपत्नम्=without rival ऋद्धम्=prosperous राज्यम्=kingdom सुराणाम्=of the demigods अपि=even च=alsoआधिपत्यम्=supremacy

Meaning
2.8: I do not see how I could get rid of my sorrow that has wilted my senses, even if I achieve unrivaled prosperity and kingdom on the earth and the supremacy over gods in heaven.