श्लोकः
नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन।
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः।।३-१८।।

सन्धि विग्रहः
न एव तस्य कृतेन अर्थः न अकृतेन इह कश्चन।
न च अस्य सर्व-भूतेषु कश्चित् अर्थ-व्यपाश्रयः।।३-१८।।

श्लोकार्थः
इह कृतेन तस्य अर्थः न एव, अकृतेन (अपि) कश्चन अस्य (अर्थः) न,
(तथा) सर्व भूतेषु च (अ्य) कश्चित् अर्थ-व्यपाश्रयः न।

शब्दार्थः
3.18 न=never एव=certainly तस्य=his कृतेन=by discharge of duty अर्थः=purpose न=nor अकृतेन=without discharge of duty इह=in this world कश्चन=whatever न=never च=and अस्य=of him सर्व-भूतेषु=among all living beings कश्चित्=any अर्थ=purpose व्यपाश्रयः=taking shelter of.

Meaning
3.18: For him, there is no advantage in action. And there is no advantage in inaction. He does not need any being (in the whole universe) for his shelter or purpose.