श्लोकः
व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे।|
तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्।।३-२।।

सन्धि विग्रहः
व्यामिश्रेण इव वाक्येन बुद्धिं मोहयसि इव मे।
तत् एकम् वद निश्चित्य येन श्रेयः अहम् आप्नुयाम्।।३-२।।

श्लोकार्थः
व्यामिश्रेण इव वाक्येन मे बुद्धिं मोहयसि इव। तत् निश्चित्य
एकं वद, येन अहम् श्रेयः आप्नुयाम्।

शब्दार्थः
3.2 व्यामिश्रेण=by equivocal इव=certainly वाक्येन=words बुद्धिं=intelligence मोहयसि=you are bewilderingइव=certainly मे=my तत्=therefore एकम्=only one वद=please tell निश्चित्य=ascertaining येन=by whichश्रेयः=real benefit अहम्=I आप्नुयाम्=may have

Meaning
3.2: By using confusing words, you perplex my mind. Therefore tell me with certainty that one thing by which I may obtain bliss (Srēyah = Bliss, eminence, greatness).