श्लोकः
यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः।
मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः।।३-२३।।

सन्धि विग्रहः
यदि हि अहं न वर्तेयम् जातु कर्मणि अतन्द्रितः।
मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः।।३-२३।।

श्लोकार्थः
यदि हि अहं अतन्द्रितः (सन्) कर्मणि जातु न वर्तेयम्, (तर्हि)
हे पार्थ! मनुष्याः सर्वशः मम वर्त्म अनुवर्तन्ते।

शब्दार्थः
3.23 यदि=if हि=certainly अहं=I न=do not वर्तेयम्=thus engage जातु=ever कर्मणि=in the performance of prescribed duties अतन्द्रितः=with great care मम=my वर्त्म=path अनुवर्तन्ते=would follow मनुष्याः=all menपार्थ=O son of Prita सर्वशः=in all respects

Meaning
3.23: If I ever do not perform my duties with great care and attention, O, Partha all men would follow my path in all respects.