श्लोकः
ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्।
सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः।।३-३२।।

सन्धि विग्रहः
ये तु एतत् अभ्यसूयन्तः न अनुतिष्ठन्ति मे मतम्।
सर्व-ज्ञान-विमूढान् तान् विद्धि नष्टान् अचेतसः।।३-३२।।

श्लोकार्थः
ये तु एतत् अभ्यसूयन्तः मे मतम् न अनुतिष्ठन्ति, तान्
सर्व-ज्ञान- विमूढान् अचेतसः नष्टान् विद्धि।

शब्दार्थः
3.32 ये=those तु=however एतत्=this अभ्यसूयन्तः=out of envy न=do not अनुतिष्ठन्ति=regularly performमे=my मतम्=injunction सर्व-ज्ञान=in all sorts of knowledge विमूढान्=perfectly befooled तान्=they are विद्धि=know it well नष्टान्=all ruined अचेतसः=without Krishna consciousness

Meaning
3.32: The ignoramus, who is indignant and jealous and does not follow my teachings, is deluded and ignorant of all knowledge of the Self and will come to ruin.