श्लोकः
इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते।
एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम्।३-४०।।

सन्धि विग्रहः
इन्द्रियाणि मनः बुद्धिः अस्य अधिष्ठानम् उच्यते।
एतैः विमोहयति एषः ज्ञानम् आवृत्य देहिनम्।।३-४०।।

श्लोकार्थः
इन्द्रियाणि मनः बुद्धिः अस्य अधिष्ठानम् उच्यते।
एषः एतैः ज्ञानम् आवृत्य देहिनम् विमोहयति।

शब्दार्थः
3.40 इन्द्रियाणि=the senses मनः=the mind बुद्धिः=the intelligence अस्य=of this lust अधिष्ठानम्=sitting place उच्यते=is called एतैः=by all these विमोहयति=bewilders एषः=this ज्ञानम्=knowledge आवृत्य=coveringदेहिनम्=of the embodied

Meaning
3.40: The senses, the mind and the buddhi (intelligence) are the seat of this desire. This covering of the Jnānam (wisdom) by desire deludes the embodied soul.