श्लोकः
कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्।
इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते।।३-६।।

सन्धि विग्रहः
कर्म-इन्द्रियाणि संयम्य यः आस्ते मनसा स्मरन्।
इन्द्रियार्थान् विमूढात्मा मिथ्याचारः सः उच्यते।।३-६।।

श्लोकार्थः
यः कर्म-इन्द्रियाणि संयम्य, मनसा इन्द्रियार्थान् स्मरन् आस्ते,
सः विमूढात्मा मिथ्याचारः उच्यते।

शब्दार्थः
3.6 कर्म-इन्द्रियाणि=the five working sense organs संयम्य=controlling यः=anyone who आस्ते=remainsमनसा=by the mind स्मरन्=thinking of इन्द्रियार्थान्=sense objects विमूढात्मा=foolish soulमिथ्याचारः=pretender सः=he उच्यते=is called

Meaning
3.6: The foolish man (vi-mūdha-atma), who curbs his sense organs for outward show, but thinks about the sense objects in his mind, is a (mithya-acāra) deceitful teacher.