श्लोकः
यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन।
कर्मेन्द्रियै: कर्मयोगमसक्तः स विशिष्यते।।३-७।।

सन्धि विग्रहः
यः तु इन्द्रियाणि मनसा नियम्य आरभते अर्जुन।
कर्म-इन्द्रियैः कर्म-योगम् असक्तः सः विशिष्यते।।३-७।।

श्लोकार्थः
हे अर्जुन! यः तु मनसा इन्द्रियाणि नियम्य, असक्तः कर्म-इन्द्रियैः
कर्म-योगम् आरभते, सः विशिष्यते।

शब्दार्थः
3.7 यः=one who तु=but इन्द्रियाणि=the senses मनसा=by the mind नियम्य=regulating आरभते=beginsअर्जुन=O Arjuna कर्म-इन्द्रियैः=by the active sense organs कर्म-योगम्=devotion असक्तः=without attachmentसः=he विशिष्यते=is by far the better

Meaning
3.7: The one, who restrains his senses by his mind, and begins, O Arjuna, his karma yogam -Yoga of action – without attachment to sense organs, is superior (and unsurpassed).