श्लोकः
न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा।
इति मां योऽभिजानाति कर्मभिर्न स बध्यते।।४-१४।।

सन्धि विग्रहः
न माम् कर्माणि लिम्पन्ति न मे कर्म-फले स्पृहा
इति माम् यः अभिजानाति कर्मभिः न स बध्यते।।४-१४।।

श्लोकार्थः
कर्म-फले मे स्पृहा न (अतः) कर्माणि माम् न लिम्पन्ति।
इति यः माम् अभिजानाति, सः कर्मभिः न बध्यते।

शब्दार्थः
4.14 न=never माम्=me कर्माणि=all kinds of work लिम्पन्ति=do affect न=nor मे=my कर्म-फले=in fruitive action स्पृहा=aspiration इति=thus माम्=me यः=one who अभिजानाति=does know कर्मभिः=by the reaction of such work न=never स=he बध्यते=becomes entangled

Meaning
4.14: These works never bind me, for I have no desire for their fruits. He, who knows me as Truth, is never bound by actions.