श्लोकः
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः।
तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।४-१६।।

सन्धि विग्रहः
किम् कर्म किम् अकर्म इति कवयः अपि अत्र मोहिताः।
तत् ते कर्म प्रवक्ष्यामि यत् ज्ञात्वा मोक्ष्यसे अशुभात्।।४-१६।।

श्लोकार्थः
‘किम् कर्म, किम् अकर्म’ इति अत्र कवयः अपि मोहिताः।
तत् कर्म ते प्रवक्ष्यामि, यत् ज्ञात्वा अशुभात् मोक्ष्यसे।

शब्दार्थः
4.16 किम्=what is कर्म=action किम्=what is अकर्म=inaction इति=thus कवयः=the intelligent अपि=alsoअत्र=in this matter मोहिताः=are bewildered तत्=that ते=unto you कर्म=work प्रवक्ष्यामि=I shall explainयत्=which ज्ञात्वा=knowing मोक्ष्यसे=you will be liberated अशुभात्=from ill fortune

Meaning
4.16: What is action? What is inaction? Thus even the wise, in this matter, are confused. I will expound to you that action by knowing which, you will be liberated from sin.