श्लोकः
एवं परम्पराप्राप्तमिमं राजर्षयो विदुः।
स कालेनेह महता योगो नष्टः परन्तप।।४-२।।

सन्धि विग्रहः
एवम् परम्परा-प्राप्तम् इमम् राजर्षयः विदुः।
सः कालेन इह महता योगः नष्टः परन्तप।।४-२।।

श्लोकार्थः
हे परन्तप! एवम् परम्परा-प्राप्तम् इमम् (योगं)
राजर्षयः विदुः। सः योगः महता कालेन इह नष्टः।

शब्दार्थः
4.2 एवम्=thus परम्परा=by disciplic succession प्राप्तम्=received इमम्=this science राजर्षयः=the saintly kings विदुः=understood सः=that knowledge कालेन=in the course of time इह=in this world महता=greatयोगः=the science of one’s relationship with Supreme नष्टः=scattered परन्तप=O Arjuna, subdue of the enemies

Meaning
4.2: Thus the knowledge, in a succession, came down to the royal sages who knew it and in the great passage of time, this knowledge was lost, O Parantapa (the oppressor of enemies).