श्लोकः
त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः।
कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः।।४-२०।।

सन्धि विग्रहः
त्यक्त्वा कर्म-फल-आसङ्गम् नित्य-तृप्तः निराश्रयः,
कर्मणि अभिप्रवृत्तः अपि न एव किञ्चित् करोति सः।।४-२०।।

श्लोकार्थः
(यः) कर्म-फल-आसङ्गम् त्यक्त्वा नित्य-तृप्तः निराश्रयः,
सः कर्मणि अभिप्रवृत्तः अपि न एव किञ्चित् करोति।

शब्दार्थः
4.20 त्यक्त्वा=having given up कर्म-फल-आसङ्गम्=attachment for fruitive results नित्य=alwaysतृप्तः=being satisfied निराश्रयः=without any shelter कर्मणि=in activity अभिप्रवृत्तः=being fully engaged अपि=in spite of न=does not एव=certainly किञ्चित्=anything करोति=do सः=he

Meaning
4.20: Having given up desire and attachment to fruit of action, always contented, and not dependent, and though engaged in action, he does nothing ever at all.