श्लोकः
स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः।
भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम्।।४-३।।

सन्धि विग्रहः
सः एव अयम् मया ते अद्य योगः प्रोक्तः पुरातनः।
भक्तः असि मे सखा च इति रहस्यम् हि एतत् उत्तमम्।।४-३।।

श्लोकार्थः
सः एव अयम् पुरातनः योगः मया अद्य ते प्रोक्तः। (त्वं) मे
भक्तः सखा च असि इति, हि एतत् उत्तमम् रहस्यम्।

शब्दार्थः
4.3 सः=the same एव=certainly अयम्=this मया=by me ते=unto you अद्य=today योगः=the science of yogaप्रोक्तः=spoken पुरातनः=very old भक्तः=devotee असि=you are मे=my सखा=friend च=also इति=thereforeरहस्यम्=mystery हि=certainly एतत्=this उत्तमम्=transcendental

Meaning
4.3: That same ancient yoga of knowledge is declared to you, for you are my devotee and friend. This is certainly the supreme secret.