श्लोकः
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते।
तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति।।४-३८।।

सन्धि विग्रहः
न हि ज्ञानेन सदृशम् पवित्रम् इह विद्यते।
तत् स्वयं योग-संसिद्धः कालेन आत्मनि विन्दति।।४-३८।।

श्लोकार्थः
हि इह ज्ञानेन सदृशम् पवित्रम् न विद्यते। तत् (ज्ञानं)
स्वयं योग-संसिद्धः कालेन आत्मनि विन्दति।

शब्दार्थः
4.38 न=nothing हि=certainly ज्ञानेन=with knowledge सदृशम्=in comparison पवित्रम्=sanctified इह=in this world विद्यते=exists तत्=that स्वयं=himself योग=in devotion संसिद्धः=he who is mature कालेन=in course of time आत्मनि=in himself विन्दति=enjoys

Meaning
4.38: Nothing exists in this world for comparison, when it comes to knowledge as the purifier. He, who has been perfect in yoga of knowledge for a long time, finds it in his own self in due course of time.