श्लोकः
अर्जुन उवाच।
अपरं भवतो जन्म परं जन्म विवस्वतः।
कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति।।४-४।।

सन्धि विग्रहः
अपरम् भवतः जन्म परम् जन्म विवस्वतः।
कथम् एतत् विजानीयाम् त्वम् आदौ प्रोक्तवान् इति।।४-४।।

श्लोकार्थः
भवतः जन्म अपरम्, विवस्वतः जन्म परम्, (अतः) त्वम्
आदौ एतत् प्रोक्तवान् इति कथम् विजानीयाम्?

शब्दार्थः
4.4 अपरम्=junior भवतः=Your जन्म=birth परम्=superior जन्म=birth विवस्वतः=of the sun-god कथम्=howएतत्=this विजानीयाम्=shall I understand त्वम्=you आदौ=in the beginning प्रोक्तवान्=instructed इति=thus

Meaning
4.4: Arjuna said: Your birth was later and Vivasvat’s birth was earlier. Then how am I to know that you declared this to him in the beginning?