श्लोकः
न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम्।
स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः।।५-२०।।

सन्धि विग्रहः
न प्रहृष्येत् प्रियम् प्राप्य न उद्विजेत् प्राप्य च अप्रियम्।
स्थिर-बुद्धिः असम्मूढः ब्रह्मवित् ब्रह्मणि स्थितः।।५-२०।।

श्लोकार्थः
प्रियम् प्राप्य न प्रहृष्येत्, अप्रियम् प्राप्य च न उद्विजेत्,
(एवं) स्थिर-बुद्धिः, असम्मूढः, ब्रह्मवित्, ब्रह्मणि स्थितः।

शब्दार्थः
5.20 न=never प्रहृष्येत्=rejoices प्रियम्=the pleasant प्राप्य=achieving न=does not उद्विजेत्=become agitatedप्राप्य=obtaining च=also अप्रियम्=the unpleasant स्थिर-बुद्धिः=self-intelligent असम्मूढः=unbewilderedब्रह्मवित्=one who knows the Supreme perfectly ब्रह्मणि=in the transcendence स्थितः=situated

Meaning
5.20: He neither rejoices for getting that which is pleasant nor laments at getting that which is unpleasant. Since he is steady in his intelligence without bewilderment, the knower of Brahman or God is established in God.