श्लोकः
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम्।
ततस्ततो नियम्यैतदात्मन्येव वशं नयेत्।।६-२६।।

सन्धि विग्रहः
यतः यतः निश्चरति मनः चञ्चलम् अस्थिरम्।
ततः ततः नियम्य एतत् आत्मनि एव वशं नयेत्।।६-२६।।

श्लोकार्थः
चञ्चलम् अस्थिरम् मनः यतः यतः निश्चरति, ततः ततः
एतत् नियम्य आत्मनि एव वशं नयेत्।

शब्दार्थः
6.26 यतः यतः=wherever निश्चरति=becomes verily agitated मनः=the mind चञ्चलम्=flickeringअस्थिरम्=unsteady ततः ततः=from there नियम्य=regulating एतत्=this आत्मनि=in the self एव=certainlyवशं=control नयेत्=must bring under

Meaning
6.26: In whatever direction the unsteady fickle mind goes, one should hold this mind back and bring it under the control of the Self (Atman).