श्लोकः
आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते।
योगारूढस्य तस्यैव शमः कारणमुच्यते।।६-३।।

सन्धि विग्रहः
आरुरुक्षोः मुनेः योगम् कर्म कारणम् उच्यते।
योग-आरूढस्य तस्य एव शमः कारणम् उच्यते।।६-३।।

श्लोकार्थः
योगम् आरुरुक्षोः मुनेः कर्म कारणम् उच्यते,
योग-आरूढस्य तस्य एव शमः कारणम् उच्यते।

शब्दार्थः
6.3 आरुरुक्षोः=who has just begun yoga मुनेः=of the sage योगम्=the eightfold yoga system कर्म=workकारणम्=the means उच्यते=is said to be योग=eightfold yoga आरूढस्य=of one who has attained तस्य=hisएव=certainly शमः=cessation of all material activities कारणम्=the means उच्यते=is said to be

Meaning
6.3: Desirous of advancing in karma yoga, action is the means for a sage. When he attains to such yoga, tranquility is the means.