श्लोकः
अर्जुन उवाच
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन।
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम्।।६-३३।।

सन्धि विग्रहः
अर्जुनः उवाच।
यः अयं योगः त्वया प्रोक्तः साम्येन मधुसूदन।
एतस्य अहं न पश्यामि चञ्चलत्वात् स्थितिम् स्थिराम्।।६-३३।।

श्लोकार्थः
अर्जुनः उवाच।
हे मधुसूदन! यः अयं योगः त्वया साम्येन प्रोक्तः, एतस्य
स्थिराम् स्थितिम् चञ्चलत्वात् अहं न पश्यामि।

शब्दार्थः
6.33 यः अयं=this system योगः=mysticism त्वया=by you प्रोक्तः=described साम्येन=generally मधुसूदन=O killer of the demon Madhu एतस्य=of this अहं=I न=do not पश्यामि=see चञ्चलत्वात्=due to being restlessस्थितिम्=situation स्थिराम्=stable.

Meaning
6.33: O Madhusudana (Killer of demon Madhu, Krishna), In this Yoga that was declared by You as same [as the Doctrine of equality and empathy or Yoga of Evenness], I do not see its stability because of agitation of my mind.