श्लोकः
चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम्।
तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम्।।६-३४।।

सन्धि विग्रहः
चञ्चलम् हि मनः कृष्ण प्रमाथि बलवत् दृढम्।
तस्य अहम् निग्रहम् मन्ये वायोः इव सुदुष्करम्।।६-३४।।

श्लोकार्थः
हे कृष्ण! मनः बलवत् दृढम् चञ्चलम् प्रमाथि,
अहम् हि तस्य निग्रहम् वायोः इव, सुदुष्करम् मन्ये।

शब्दार्थः
6.34 चञ्चलम्=flickering हि=certainly मनः=mind कृष्ण=O Krishna प्रमाथि=agitating बलवत्=strongदृढम्=obstinate तस्य=its अहम्=I निग्रहम्=subduing मन्ये=think वायोः=of the wind इव=like सुदुष्करम्=difficult

Meaning
6.34: Because the mind is fickle, agitated, strong, and obstinate, O Krishna, I think restraint of the mind is as difficult as controlling the wind.