श्लोकः
श्रीभगवानुवाच
असंशयं महाबाहो मनो दुर्निग्रहं चलम्।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते।।६-३५।।

सन्धि विग्रहः
श्रीभगवान् उवाच।
असंशयम् महाबाहो मनः दुर्निग्रहम् चलम्।
अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते।।६-३५।।

श्लोकार्थः
श्रीभगवान् उवाच।
हे महाबाहो! मनः असंशयम् चलम् दुर्निग्रहम्,
हे कौन्तेय! (तत्) तु अभ्यासेन वैराग्येण च गृह्यते।

शब्दार्थः
6.35 असंशयम्=undoubtedly महाबाहो=O mighty-armed one मनः=the mind दुर्निग्रहम्=difficult to curbचलम्=flickering अभ्यासेन=by practice तु=but कौन्तेय=O son of Kunti वैराग्येण=by detachment च=alsoगृह्यते=can be so controlled

Meaning
6.35: Sri Bhagavan said:
Without doubt mind is difficult to restrain, prone to agitation; but it can be controlled by repetitive practice and by detachment, O son of Kunti.