श्लोकः
तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम्।
यतते च ततो भूयः संसिद्धौ कुरुनन्दन।।६-४३।।

सन्धि विग्रहः
तत्र तम् बुद्धि-संयोगम् लभते पौर्व-देहिकम्।
यतते च ततः भूयः संसिद्धौ कुरुनन्दन।।६-४३।।

श्लोकार्थः
हे कुरुनन्दन! (सः) तत्र तम् पौर्व-देहिकम् बुद्धि-संयोगम्
लभते, ततः च भूयः संसिद्धौ यतते।

शब्दार्थः
6.43 तत्र=thereupon तम्=that बुद्धि-संयोगम्=revival of consciousness लभते=gains पौर्व-देहिकम्=from the previous body यतते=he endeavors च=also ततः=thereafter भूयः=again संसिद्धौ=for perfection कुरुनन्दन=O son of Kuru

Meaning
6.43: Thereupon, he regains the mental, intellectual, and yogic disposition from his previous birth (body), and strives again to gain for perfection, O son of Kuru.