श्लोकः
पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः।
जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते।।६-४४।।

सन्धि विग्रहः
पूर्व-अभ्यासेन तेन एव ह्रियते हि अवशः अपि सः।
जिज्ञासुः अपि योगस्य शब्द-ब्रह्म अतिवर्तते।।६-४४।।

श्लोकार्थः
तेन एव पूर्व-अभ्यासेन सः अवशः अपि ह्रियते, हि
योगस्य जिज्ञासुः अपि शब्द-ब्रह्म अतिवर्तते।

शब्दार्थः
6.44 पूर्व=previous अभ्यासेन=by practice तेन=by that एव=certainly ह्रियते=is attracted हि=surelyअवशः=automatically अपि=also सः=he जिज्ञासुः=inquisitive अपि=even योगस्य=about yoga शब्द-ब्रह्म=ritualistic principles of scriptures अतिवर्तते=transcends

Meaning
6.44: By virtue of previous (yogic) practice (in former life), he is carried forward even against his will. Even though he is only an inquisitive seeker of yoga, he transcends Sabda-Brahman or Vedic rituals.