श्लोकः
तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन।।६-४६।।

सन्धि विग्रहः
तपस्विभ्यः अधिकः योगी ज्ञानिभ्यः अपि मतः अधिकः।
कर्मिभ्यः च अधिकः योगी तस्मात् योगी भव अर्जुन।।६-४६।।

श्लोकार्थः
योगी तपस्विभ्यः अधिकः, ज्ञानिभ्यः अपि च अधिकः मतः,
योगी कर्मिभ्यः (च) अधिकः, तस्मात् हे अर्जुन!
(त्वं) योगी भव।

शब्दार्थः
6.46 तपस्विभ्यः=than the ascetics अधिकः=greater योगी=the yogi ज्ञानिभ्यः=than the wise अपि=alsoमतः=considered अधिकः=greater कर्मिभ्यः=than the fruitive workers च=also अधिकः=greater योगी=the yogi तस्मात्=therefore योगी=a transcendentalist भव=just become अर्जुन=O Arjuna

Meaning
6.46: The yogi is superior to the ascetic, greater than the Jnāni, and more sublime than the ritualists. Therefore, O Arjuna, thou become a yogi.