श्लोकः
ये चैव सात्त्विका भावा राजसास्तामसाश्च ये।
मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि।।७-१२।।

सन्धि विग्रहः
ये च एव सात्त्विकाः भावाः राजसाः तामसाः च ये।
मत्तः एव इति तान् विद्धि न तु अहं तेषु ते मयि।।७-१२।।

श्लोकार्थः
ये च एव सात्त्विकाः राजसाः तामसाः च भावाः, ते
मत्तः एव इति तान् विद्धि, अहं तेषु न (अस्मि), तु ते मयि (वर्तन्ते)।

शब्दार्थः
7.12 ये=all which च=and एव=certainly सात्त्विकाः=in goodness भावाः=states of being राजसाः=in the mode of passion तामसाः=in the mode of ignorance च=also ये=all which मत्तः=from me एव=certainly इति=thusतान्=those विद्धि=try to know न=not तु=but अहं=I तेषु=in them ते=they मयि=in me

Meaning
7.12: Know that all states of being, such as Sattva, Rajas, and Tamas proceed thus from Me. I am not in them, but they are in Me.