श्लोकः
उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम्।
आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम्।।७-१८।।

सन्धि विग्रहः
उदाराः सर्वे एव एते ज्ञानी तु आत्मा एव मे मतम्।
आस्थितः सः हि युक्त-आत्मा माम् एव अनुत्तमाम् गतिम्।।७-१८।।

श्लोकार्थः
एते सर्वे एव उदाराः (सन्ति), ज्ञानी तु (मम) आत्मा) एव
(अस्ति इति) मे मतम्। सः हि युक्त-आत्मा अनुत्तमाम् गतिम्
माम् एव आस्थितः (अस्ति)।

शब्दार्थः
7.18 उदाराः=magnanimous सर्वे=all एव=certainly एते=these ज्ञानी=one who is in knowledge तु=but आत्मा एव=just like myself मे=my मतम्=opinion आस्थितः=situated सः=he हि=certainly युक्त-आत्मा=engaged in devotional service माम्=in me एव=certainly अनुत्तमाम्=the highest गतिम्=destination

Meaning
7.18: All these (four kinds of people) are noble, but the Jnāni, I consider, as truly My Self. In my opinion, he whose mind abides in Me alone has Me as the unsurpassed Goal.