श्लोकः
यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम्।।७-२१।।

सन्धि विग्रहः
यः यः याम् याम् तनुम् भक्तः श्रद्धया अर्चितुम् इच्छति।
तस्य तस्य अचलाम् श्रद्धाम् ताम् एव विदधामि अहम्।।७-२१।।

श्लोकार्थः
यः यः भक्तः याम् याम् तनुम् श्रद्धया अर्चितुम् इच्छति,
तस्य तस्य ताम् एव श्रद्धाम् अहम् अचलाम् विदधामि।

शब्दार्थः
7.21 यः यः=whoever याम् याम्=whichever तनुम्=form of demigod भक्तः=devotee श्रद्धया=with faithअर्चितुम्=to worship इच्छति=desires तस्य तस्य=to him अचलाम्=steady श्रद्धाम्=faith ताम्=that एव=surelyविदधामि=give अहम्=I

Meaning
7.21: Whatever is the form of deity, whom a devotee desires to worship with faith, I make sure that his faith is steady (in that deity).