श्लोकः
मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये।
यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः।।७-३।।

सन्धि विग्रहः
मनुष्याणाम् सहस्रेषु कश्चित् यतति सिद्धये।
यतताम् अपि सिद्धानाम् कश्चित् माम् वेत्ति तत्त्वतः।।७-३।।

श्लोकार्थः
मनुष्याणाम् सहस्रेषु कश्चित् सिद्धये यतति;
यतताम् सिद्धानाम् अपि कश्चित् माम् तत्त्वतः वेत्ति।

शब्दार्थः
7.3 मनुष्याणाम्=of men सहस्रेषु=out of many thousands कश्चित्=someone यतति=endeavors सिद्धये=for perfection यतताम्=of those so endeavoring अपि=indeed सिद्धानाम्=of those who have achieved perfection कश्चित्=someone माम्=me वेत्ति=does know तत्त्वतः=in fact

Meaning
7.3: Out of thousands of men, someone strives for perfection. Of those striving for and attaining to perfection, hardly one knows Me in truth.