श्लोकः
मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय।
मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव।।७-७।।

सन्धि विग्रहः
मत्तः परतरं न अन्यत् किञ्चित् अस्ति धनञ्जय।
मयि सर्वम् इदम् प्रोतम् सूत्रे मणिगणाः इव।।७-७।।

श्लोकार्थः
हे धनञ्जय! मत्तः परतरं अन्यत् किञ्चित् न अस्ति।
सूत्रे मणिगणाः इव इदम् सर्वम् मयि प्रोतम्।

शब्दार्थः
7.7 मत्तः=beyond Me परतरं=superior न=not अन्यत् किञ्चित्=anything else अस्ति=there is धनञ्जय=O conqueror of wealth मयि=in me सर्वम्=all that be इदम्=which we see प्रोतम्=is strung सूत्रे=on a threadमणिगणाः=pearls इव=like

Meaning
7.7: There is nothing higher than Me, O Arjuna. All that is here (universe) is strung on Me, as a row of gems on a thread.