श्लोकः
रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः।
प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु।।७-८।।

सन्धि विग्रहः
रसः अहम् अप्सु कौन्तेय प्रभा अस्मि शशि-सूर्ययोः।
प्रणवः सर्व-वेदेषु शब्दः खे पौरुषम् नृषु।।७-८।।

श्लोकार्थः
हे कौन्तेय! अहम् अप्सु रसः, शशि-सूर्ययोः प्रभा,
सर्व-वेदेषु प्रणवः, खे शब्दः, नृषु पौरुषम् अस्मि।

शब्दार्थः
7.8 रसः=taste अहम्=I अप्सु=in water कौन्तेय=O son of Kunti प्रभा=the light अस्मि=I am शशि-सूर्ययोः=of the moon and the sun प्रणवः=the three letters a-u-m सर्व=in all वेदेषु=the vedas शब्दः=sound vibrationखे=in the ether पौरुषम्=ability नृषु=in men

Meaning
7.8: I am the taste in the water, O Son of Kunti; I am the light in the moon and the sun; the prānava (AUM) in the Vedas; sound in the ether; and the virility (manhood) in men.