श्लोकः
यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः।
यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते यदं सङ्ग्रहेण प्रवक्ष्ये।।८-११।।

सन्धि विग्रहः
यत् अक्षरम् वेद-विदः वदन्ति विशन्ति यत् यतयः वीत-रागाः।
यत् इच्छन्तः ब्रह्मचर्यम् चरन्ति तत् ते पदम् सङ्ग्रहेण प्रवक्ष्ये।।८-११।।

श्लोकार्थः
वेद-विदः यत् अक्षरम् वदन्ति, वीत-रागाः यतयः यत्
विशन्ति, (ब्रह्मचारिणः) यत् इच्छन्तः ब्रह्मचर्यम् चरन्ति,
तत् पदम् ते सङ्ग्रहेण प्रवक्ष्ये।

शब्दार्थः
8.11. यत्=that which अक्षरम्=syllable om वेद-विदः=persons conversant with the Vedas वदन्ति=say विशन्ति=enter यत्=in which यतयः=great sages वीत-रागाः=in the renounced order of life यत्=that whichइच्छन्तः=desiring ब्रह्मचर्यम्=celibacy चरन्ति=practice तत्=that ते=unto you पदम्=situation सङ्ग्रहेण=in summary प्रवक्ष्ये=I shall explain

Meaning
8.11: I shall briefly explain to you the path, which the Veda Vidahs call Imperishable (Aksaram), desiring which the ascetics practice bramacharya. They enter Aksaram by freeing themselves from passion.