श्लोकः
अनन्यचेताः सततं यो मां स्मरति नित्यशः।
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः।।८-१४।।

सन्धि विग्रहः
अनन्य-चेताः सततम् यः माम् स्मरति नित्यशः।
तस्य अहं सुलभः पार्थ नित्य-युक्तस्य योगिनः।।८-१४।।

श्लोकार्थः
हे पार्थ! यः नित्यशः अनन्य-चेताः (सन्) माम्
सततं स्मरति, तस्य नित्य-युक्तस्य योगिनः अहं सुलभः (अस्मि)।

शब्दार्थः
8.14. अनन्य-चेताः=without deviation of the mind सततम्=alwyas यः=anyone who माम्=Me (Krishna) स्मरति=remembers नित्यशः=regularly तस्य=to him अहं=I am सुलभः=very easy to achieve पार्थ=O son of Prithaनित्य=regularly युक्तस्य=engaged योगिनः=for the devotee

Meaning
8.14: He, who remembers Me constantly lacking extraneous thoughts and is absorbed in Me constantly, O Partha, is a Yogin to whom I am easily accessible.