श्लोकः
भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते।
रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे।।८-१९।।

सन्धि विग्रहः
भूत-ग्रामः सः एव अयम् भूत्वा भूत्वा प्रलीयते।
रात्रि आगमे अवशः पार्थ प्रभवति अहः आगमे।।८-१९।।

श्लोकार्थः
हे पार्थ! सः एव अयम् भूत-ग्राम अवशः (सन्),
भूत्वा भूत्वा रात्रि आगमे प्रलीयते (पुनः) अहः आगमे प्रभवति।

शब्दार्थः
8.19. भूत-ग्रामः=the aggregate of all living entities सः=these एव=certainly अयम्=this भूत्वा भूत्वा=repeatedly taking birth प्रलीयते=is annihilated रात्रि=of night आगमे=on the arrivalअवशः=automatically पार्थ=O son of Pritha प्रभवति=is manifest अहः=of daytime आगमे=on the arrival

Meaning
8.19: The host of beings, taking birth again and again dissolves against their will on the arrival of night O Partha and comes into being on arrival of day.