श्लोकः
वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम्।
अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम्।।८-२८।।

सन्धि विग्रहः
वेदेषु यज्ञेषु तपःसु च एव दानेषु यत् पुण्य-फलम् प्रदिष्टम्।
अत्येति तत् सर्वम् इदम् विदित्वा योगी परम् स्थानम् उपैति च आद्यम्।।८-२८।।

श्लोकार्थः
योगी इदम् विदित्वा, वेदेषु यज्ञेषु तपःसु दानेषु च एव
यत् पुण्य-फलम् प्रदिष्टम्, तत् सर्वम् अत्येति, आद्यम् परम् च स्थानम् उपैति।

शब्दार्थः
8.28. वेदेषु=in the study of the vedas यज्ञेषु=in the performances of yajna, sacrifice तपःसु=in undergoing different types of austerities च=also एव=certainly दानेषु=in giving charities यत्=that which पुण्य-फलम्=result of pious work प्रदिष्टम्=indicated अत्येति=surpasses तत् सर्वम्=all those इदम्=thisविदित्वा=knowing योगी=the devotee परम्=supreme स्थानम्=abode उपैति=achieves च=also आद्यम्=original

Meaning
8.28: Knowing all this and going beyond the studies of Vedas, performance of sacrifices, tapas (austerities), and charities, which (collectively) result in fruits of merit, the yogi attains the Supreme eternal abode magyargenerikus.com.

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे
अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः।।८।।