श्लोकः
अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम्।
अधियज्ञोऽहमेवात्र देहे देहभृतां वर।।८-४।।

सन्धि विग्रहः
अधिभूतम् क्षरः भावः पुरुषः च अधिदैवतम्।
अधियज्ञः अहम् एव अत्र देहे देह-भृताम् वर।।८-४।।

श्लोकार्थः
हे देह-भृताम् वर! क्षरः भावः अधिभूतम्, पुरुषः
अधिदैवतम्, अत्र देहे च अहम् एव अधियज्ञः।

शब्दार्थः
8.4. अधिभूतम्=the physical manifestation क्षरः=constantly changing भावः=nature पुरुषः=the universal form च=and अधिदैवतम्=called adhidaiva अधियज्ञः=the Supersoul अहम्=I (Krishna) एव=certainly अत्र=in this देहे=body देह-भृताम्=of the embodied वर=O best

Meaning
8.4: Adhibhūtam is perishable, Purusa is Adhidaiva, and I am Adhiyajna in the body, O the Best of embodied beings (Arjuna).