श्लोकः
तस्मात्सर्वेषु  कालेषु मामनुस्मर युध्य च।
मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम्।।८-७।।

सन्धि विग्रहः
तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च।
मयि अर्पित-मनः-बुद्धिः माम् एव एष्यसि असंशयम्।।८-७।।

श्लोकार्थः
तस्मात् सर्वेषु कालेषु मयि अर्पित-मनः-बुद्धिः (भव),
माम् अनुस्मर, युध्य च। (एवं) असंशयम् माम् एव एष्यसि।

शब्दार्थः
8.7. तस्मात्=therefore सर्वेषु=at all कालेषु=times माम्=me अनुस्मर=go on remembering युध्य=fight च=alsoमयि=unto me अर्पित=surrendering मनः=mind बुद्धिः=intellect माम्=unto me एव=surely एष्यसि=you will attain असंशयम्=beyond a doubt

Meaning
8.7: Therefore, always remember Me and fight (yudhya). You will reach Me without doubt, if your mind and intellect intent on (arpita) Me.