श्लोकः
कविं पुराणमनुशासितारं अणोरणीयांसमनुस्मरेद्यः।
सर्वस्य धातारमचिन्त्यरूपम् मादित्यवर्णं तमसः परस्तात्।।८-९।।
प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव।
भ्रुबोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम्।।८-१०

सन्धि विग्रहः
कविम् पुराणम् अनुशासितारम् अणोः अणियांसम् अनुस्मरेत् यः।
सर्वस्य धातारम् अचिन्त्य-रूपं आदित्य-वर्णम् तमसः परस्तात्।।८-९।।
प्रयाण-काले मनसा अचलेन भक्त्या युक्तः योग-बलेन च एव।
भ्रुबोः मध्ये प्राणम् आवेश्य सम्यक् सः तम् परम् पुरुषम् उपैति दिव्यम्।।८-१०।।

श्लोकार्थः
कविम्, पुराणम्, अनुशासितारम्, अणोः अणीयांसम्,
सर्वस्य धातारम्, अचिन्त्य-रूपं, तमसः परस्तात्
आदित्य-वर्णम् (विद्यमानं पुरुषं), प्रयाण-काले,
अचलेन मनसा, भक्त्या युक्तः योग-बलेन च एव भ्रुवोः
मध्ये सम्यक् प्राणम् आवेश्य, यः अनुस्मरेत् सः तम् परम् दिव्यम् पुरुषम् उपैति।

शब्दार्थः
8.9. कविम्=the one who knows everything पुराणम्=the oldest अनुशासितारम्=the controller अणोः=than the atom अणियांसम्=smaller अनुस्मरेत्=always thinks of यः=one how सर्वस्य=of everything धातारम्=the maintainer अचिन्त्य=inconceivable रूपं=whose form आदित्य-वर्णम्=luminous like the sun तमसः=to darkness परस्तात्=transcendental
8.10. प्रयाण-काले=at the time of death मनसा=by the mind अचलेन=without its being deviated भक्त्या=in full devotion युक्तः=engaged योग-बलेन=by the power of mystic yoga च=also एव=certainly भ्रुबोः=the two eyebrows मध्ये=between प्राणम्=the life air आवेश्य=establishing सम्यक्=completely सः=he तम्=thatपरम्=transcendental पुरुषम्=Personality of Godhead उपैति=achieves दिव्यम्=in the spiritual kingdom

Meaning
8.9: He, who meditates on the Kavi ( the Omniscient: sage, seer, or poet), the ancient, the (inner) controller, the one smaller than the smallest, and the supporter of everything, and whose form is inconceivable (acintya rūpam), is sun-colored (Āditya-varnam) beyond darkness [attains the Supreme].
8.10: At the time of departure, with the unwavering mind fixed (on the Lord) in devotion, by the strength of yoga, with his prāna fixed between the eyebrows, he attains to Purusam and Divyam.