अथ नवमोऽध्यायः। राजविद्याराजगुह्ययोगः।

श्लोकः
श्रीभगवानुवाच।
इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे।
ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात्।।९-१।।

सन्धि विग्रहः
इदम् तु ते गुह्यतमम् प्रवक्ष्यामि अनसूयवे।
ज्ञानम् विज्ञान-सहितम् यत् ज्ञात्वा मोक्ष्यसे अशुभात्।।९-१।।

श्लोकार्थः
यत् ज्ञात्वा (त्वं) अशुभात् मोक्ष्यसे, (तत्) तु इदम्
गुह्यतमम् विज्ञान-सहितम् ज्ञानम् अनसूयवे ते प्रवक्ष्यामि।

शब्दार्थः
9.1. इदम्=this तु=but ते=unto you गुह्यतमम्=the most confidential प्रवक्ष्यामि=I am speaking अनसूयवे=to the nonenvious ज्ञानम्=knowledge विज्ञान=realized knowledge सहितम्=with यत्=which ज्ञात्वा=knowingमोक्ष्यसे=you will be released अशुभात्=from the miserable material existence

Meaning
9.1: Sri Bhagavan said: I shall declare to you, not jealous of Me, the most supreme secret of Jnāna and Vijnāna, by knowing which you will gain moksa (liberation) from the miseries.