श्लोकः
पिताहमस्य जगतो माता धाता पितामहः।
वेद्यं पवित्रमोङ्कार ऋक्साम यजुरेव च।।९-१७।।

सन्धि विग्रहः
पिता अहम् अस्य जगतः माता धाता पितामहः।
वेद्यम् पवित्रम् ओङ्कारः ऋक्-साम यजुः एव च।।९-१७।।

polska-ed.com

श्लोकार्थः
अहम् अस्य जगतः माता, पिता, धाता, पितामहः, वेद्यम् (वस्तु),
पवित्रम् (वस्तु), ओङ्कारः, ऋक्, साम, यजुः च (अस्मि)।

शब्दार्थः
9.17. पिता=father अहम्=I अस्य=of this जगतः=universe माता=mother धाता=supporter पितामहः=grandfatherवेद्यम्=what is to be known पवित्रम्=that which purifies ओङ्कारः=the syllable om ऋक्-साम यजुः=the Rg, Sama, Yajur vedas एव=certainly च=and

Meaning
9.17: I am the father of this world, the mother, the supporter, and the grandfather. I am the object of knowledge, and the purifier. I am Omkara (the syllable AUM or OM), Rg, Sama, and Yajur Vedas.