श्लोकः
अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्।।९-२२।।

सन्धि विग्रहः
अनन्याः चिन्तयन्तः माम् ये जनाः पर्युपासते।
तेषाम् नित्य-अभियुक्तानाम् योग-क्षेमम् वहामि अहम्।।९-२२।।

श्लोकार्थः
अनन्याः चिन्तयन्तः ये जनाः माम् पर्युपासते, तेषाम्
नित्य-अभियुक्तानाम् योग-क्षेमम् अहम् वहामि।

शब्दार्थः
9.22. अनन्याः=having no other object चिन्तयन्तः=concentrating माम्=on me ये=those who जनाः=personsपर्युपासते=properly worship तेषाम्=of them नित्य=always अभियुक्तानाम्=fixed in devotionयोग=requirements क्षेमम्=protection वहामि=carry अहम्=I

Meaning
9.22: To those people, who think of Me excluding all else, worshipping Me always and devoted to Me, I bring yogam and ksemam (success and security).