श्लोकः
समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः।
ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम्।।९-२९।।

सन्धि विग्रहः
समः अहम् सर्व-भूतेषु न मे द्वेष्यः अस्ति न प्रियः।
ये भजन्ति तु माम् भक्त्या मयि ते तेषु च अपि अहम्।।९-२९।।

श्लोकार्थः
अहम् सर्व-भूतेषु समः, मे द्वेष्यः प्रियः च न अस्ति,
(परं) तु ये माम् भक्त्या भजन्ति, ते मयि, (च) अहम् अपि तेषु (च)।

शब्दार्थः
9.29. समः=equally disposed अहम्=I सर्व-भूतेषु=to all living entities न=no one मे=to me द्वेष्यः=hateful अस्ति=is न=nor प्रियः=dear ये=those who भजन्ति=render transcendental service तु=but माम्=unto me भक्त्या=in devotion मयि=are in me ते=such persons तेषु=in them च=also अपि=even अहम्=I

Meaning
9.29: I am the same to all living beings. No one is despicable or dear to Me. They, who worship Me with devotion, are in Me, and I am certainly in them.