श्लोकः
अपि चेत्सुदुराचारो भजते मामनन्यभाक्।
साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः।।९-३०।।

सन्धि विग्रहः
अपि चेत् सु-दुः-आचारः भजते माम् अनन्य-भाक्।
साधुः एव सः मन्तव्यः सम्यक् व्यवसितः हि सः।।९-३०।।

श्लोकार्थः
सु-दुः-आचारः अपि माम् अनन्य-भाक् भजते चेत्,
सः साधुः एव मन्तव्यः, सः हि सम्यक् व्यवसितः (अस्ति)।

शब्दार्थः
9.30. अपि=even चेत्=if सु-दुः-आचारः=one committing the most abominable actions भजते=is engaged in devotional service माम्=unto me अनन्य-भाक्=without deviation साधुः=a saint एव=certainly सः=heमन्तव्यः=is to be considered सम्यक्=completely व्यवसितः=situated in determination हि=certainly सः=he

Meaning
9.30: Even the one, who commits the most sinful acts, worships with exclusive devotion to Me, is thought of as a sadhu, because he has rightly resolved.