श्लोकः
मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः।
स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम्।।९-३२।।

सन्धि विग्रहः
माम् हि पार्थ व्यपाश्रित्य ये अपि स्युः पाप-योनयः।
स्त्रियः वैश्याः तथा शूद्राः ते अपि यान्ति पराम् गतिम्।।९-३२।।

श्लोकार्थः
हे पार्थ! ये अपि हि पाप-योनयः सत्रियः वैश्याः तथा
शूद्राः स्युः ते अपि माम् व्यपाश्रित्य, पराम् गतिम् यान्ति।

शब्दार्थः
9.32. माम्=of me हि=certainly पार्थ=O son of Pritha व्यपाश्रित्य=particularly taking shelter ये=those whoअपि=also स्युः=are पाप-योनयः=born of a lower family स्त्रियः=women वैश्याः=mercantile people तथा=alsoशूद्राः=lower-class men ते अपि=even they यान्ति=go पराम्=to the supreme गतिम्=destination

Meaning
9.32: O son of Partha, they, born of sin, who take refuge in Me, though they are women, Vaisyas, and Sudras, attain the Supreme Goal.