श्लोकः
सञ्जय उवाच।
एवमुक्तो हृषीकेशो गुडाकेशेन भारत।
सेनयोरुभयोर्मध्ये स्थापयेत्वा रथोत्तमम्।।१-२४।।
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम्।
उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति।।१-२५।।

सन्धि विग्रहः
सञ्जयः उवाच।
एवम् उक्तः हृषीकेशः गुडाकेशेन भारत।
सेनयोः उभयोः मध्ये स्थापयेत्वा रथ-उत्तमम्।।१-२४।।
भीष्म-द्रोण-प्रमुखतः सर्वेषाम् च मही-क्षिताम्।
उवाच पार्थ पश्य-एतान् समवेतान् कुरून् इति।।१-२५।।

श्लोकार्थः
सञ्जयः उवाच।
हे भारत! एवम्  गुडाकेशेन  उक्तः  हृषीकेशः, उभयोः  सेनयोः  मध्ये,
भीष्म-द्रोण-प्रमुखतः सर्वेषाम् च मही-क्षिताम्
रथ-उत्तमम्  स्थापयेत्वा, ‘हे पार्थ! एतान् समवेतान् कुरून्
पश्य’, इति उवाच।

शब्दार्थः
सञ्जयः उवाच = Sanjaya said
1.24 एवम्=thus उक्तः=addressed हृषीकेशः=Lord Krishna गुडाकेशेन=by Arjuna भारत= O decendant of Bharata सेनयोः=of the armies उभयोः=both मध्ये=in the midst स्थापयेत्वा=placing रथ-उत्तमम्=the finest chariot
1.25 भीष्म=Grandfather Bhishma  द्रोण=the teacher Drona  प्रमुखतः=in front of सर्वेषाम्=all च=also मही-क्षिताम्=chiefs of the world उवाच=said पार्थ=O son of Pritha पश्य=just behold  एतान्=all of themसमवेतान्=assembled कुरून्=the members of the Kuru dynasty इति=thus

Meaning
Sanjaya said:
1.24: O Bharata (Dhrtarāstra), having been addressed by Gudakesana (Arjuna), Hrsikesa (Lord Krishna) placed the best of chariots in the midst of both armies.
1.25: Facing Bhisma, Drona, and all great chiefs (the Lord) said to Partha thus: Behold (all of) the Kurus gathered.